संस्कृत और संस्कृती

अनुकूले विधौ देयं एतः पूरयिता हरिः । प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति ॥ भावार्थ:- तकदीर अनुकुल हो तब दान देना चाहिए क्यों कि सब देनेवाला भगवान है । तकदीर प्रतिकुल हो तब भी देना चाहिए क्यों कि सब हरण करनेवाला भी भगवान ही है !

गुरुवार, 2 जुलाई 2015

 
॥ श्रीगणपत्यथर्वशीर्ष ॥ 
॥ श्रीगणपत्यथर्वशीर्ष ॥

          ॥ श्री गणपत्यथर्वशीर्ष ॥


Shri Ganapati Atharvashirsha occurs in the atharva veda . It is considered
to be most important text on Lord Ganesha . Atharva means firmness, oneness
of purpose, while shIrSha means intellect (directed towards liberation).
May Ganapati, the remover of obstacles protect us . Aum . Aum . Aum.
Several translations of the text are available.
1- Ganapatyatharvasirsopanisad by Sukthankar.
2- Ganapati : Song of the Self by Grimes
3- Saiva upanisads translated by Srinivas Ayyangar
4- Aum Ganesha : The peace of God by Navaratnam
5- Ganesha : Lord of Obstacles, Lord of Beginnings by Courtright
6- Glory of Ganesha by Swami Chinmayananda
7- Ganesha Kosha by Rao.

॥ शान्ति पाठ ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ तन्मामवतु
तद् वक्तारमवतु
अवतु माम्
अवतु वक्तारम्
ॐ शान्तिः ।  शान्तिः ॥ शान्तिः॥।

॥ उपनिषत् ॥

हरिः ॐ नमस्ते गणपतये ॥

त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्ताऽसि ॥

त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि ॥

त्वमेव सर्वं खल्विदं ब्रह्मासि ॥

त्वं साक्षादात्माऽसि नित्यम् ॥ १॥

               ॥ स्वरूप तत्त्व ॥

ऋतं वच्मि (वदिष्यामि) ॥ सत्यं वच्मि (वदिष्यामि) ॥ २॥

अव त्वं माम् ॥ अव वक्तारम् ॥ अव श्रोतारम् ॥

अव दातारम् ॥ अव धातारम् ॥

अवानूचानमव शिष्यम् ॥

अव पश्चात्तात् ॥ अव पुरस्तात् ॥

अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥

अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥

सर्वतो मां पाहि पाहि समन्तात् ॥ ३॥

त्वं वाङ्मयस्त्वं चिन्मयः ॥

त्वमानन्दमयस्त्वं ब्रह्ममयः ॥

त्वं सच्चिदानन्दाद्वितीयोऽसि ॥

त्वं प्रत्यक्षं ब्रह्मासि ॥

त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४॥

सर्वं जगदिदं त्वत्तो जायते ॥

सर्वं जगदिदं त्वत्तस्तिष्ठति ॥

सर्वं जगदिदं त्वयि लयमेष्यति ॥

सर्वं जगदिदं त्वयि प्रत्येति ॥

त्वं भूमिरापोऽनलोऽनिलो नभः ॥

त्वं चत्वारि वाक्पदानि ॥ ५॥

त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ॥

त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥

त्वं मूलाधारस्थितोऽसि नित्यम् ॥

त्वं शक्तित्रयात्मकः ॥

त्वां योगिनो ध्यायन्ति नित्यम् ॥

त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं
इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं
ब्रह्मभूर्भुवःस्वरोम् ॥ ६॥

               ॥ गणेश मन्त्र ॥

गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ॥

अनुस्वारः परतरः ॥ अर्धेन्दुलसितम् ॥ तारेण ऋद्धम् ॥

एतत्तव मनुस्वरूपम् ॥ गकारः पूर्वरूपम् ॥

अकारो मध्यमरूपम् ॥ अनुस्वारश्चान्त्यरूपम् ॥

बिन्दुरुत्तररूपम् ॥ नादः सन्धानम् ॥

संहितासन्धिः ॥ सैषा गणेशविद्या ॥

गणकऋषिः ॥ निचृद्गायत्रीच्छन्दः ॥

गणपतिर्देवता ॥ ॐ गं गणपतये नमः ॥ ७॥

               ॥ गणेश गायत्री ॥

एकदन्ताय विद्महे । वक्रतुण्डाय धीमहि ॥

तन्नो दन्तिः प्रचोदयात् ॥ ८॥

               ॥ गणेश रूप ॥

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ॥

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ॥

रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ॥

    भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ॥

    आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥

    एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९॥

               ॥ अष्ट नाम गणपति ॥

नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये ।
नमस्तेऽस्तु लम्बोदरायैकदन्ताय ।
विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥ १०॥

               ॥ फलश्रुति ॥

एतदथर्वशीर्षं योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥

स सर्वतः सुखमेधते ॥ स सर्व विघ्नैर्नबाध्यते ॥

     स पञ्चमहापापात्प्रमुच्यते ॥

सायमधीयानो दिवसकृतं पापं नाशयति ॥

प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥

     सायम्प्रातः प्रयुञ्जानो अपापो भवति ॥

     सर्वत्राधीयानोऽपविघ्नो भवति ॥

     धर्मार्थकाममोक्षं च विन्दति ॥

     इदमथर्वशीर्षमशिष्याय न देयम् ॥

     यो यदि मोहाद्दास्यति स पापीयान् भवति
     सहस्रावर्तनात् यं यं काममधीते
     तं तमनेन साधयेत् ॥ ११॥

अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ॥

चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
स यशोवान् भवति ॥

इत्यथर्वणवाक्यम् ॥ ब्रह्माद्याचरणं विद्यात्
     न बिभेति कदाचनेति ॥ १२॥

यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ॥

यो लाजैर्यजति स यशोवान् भवति ॥

स मेधावान् भवति ॥

यो मोदकसहस्रेण यजति
    स वाञ्छितफलमवाप्नोति ॥

यः साज्यसमिद्भिर्यजति
    स सर्वं लभते स सर्वं लभते ॥ १३॥

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा
सूर्यवर्चस्वी भवति ॥

सूर्यग्रहे महानद्यां प्रतिमासंनिधौ
वा जप्त्वा सिद्धमन्त्रो भवति ॥

महाविघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥

महापापात् प्रमुच्यते ॥

स सर्वविद्भवति स सर्वविद्भवति ॥

य एवं वेद इत्युपनिषत् ॥ १४॥

॥ शान्ति मन्त्र ॥

ॐ सहनाववतु ॥ सहनौभुनक्तु ॥

सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः । शान्तिः ॥ शान्तिः ॥।

॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें