संस्कृत और संस्कृती

अनुकूले विधौ देयं एतः पूरयिता हरिः । प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति ॥ भावार्थ:- तकदीर अनुकुल हो तब दान देना चाहिए क्यों कि सब देनेवाला भगवान है । तकदीर प्रतिकुल हो तब भी देना चाहिए क्यों कि सब हरण करनेवाला भी भगवान ही है !

गुरुवार, 2 जुलाई 2015

                        ।। कथा ।।


ऋषिवर्याः आश्रमेषु निवसन्ति । आश्रमाः अरण्येषु नदीनां तटेषु वर्तन्ते । तापसाः नगरे जीवनं नेच्छन्ति । नगरजीवनं चित्तं कलुषयति । आश्रमपरिसरः प्रशान्तः वर्तते । आश्रमं परितः उन्नताः वृक्षाः विराजन्ते । आपगानां सलिलं प्रसन्नं मधुरं भवति । आपगाः पर्वतात् उद्भवन्ति । तापसानां तपः एव धनम् । तेषां प्रभावेण वन्याः मृगाः अपि दौर्जन्यं परित्यजन्ति । आश्रमस्य परिसरः चित्तकालुष्यं निर्मूलयति । 

    अनेके शिष्याः ग्रामेभ्यः नगरेभ्यः च विद्यार्जनाय प्रतिवर्षम् आगच्छन्ति । अध्यापकाः प्राज्ञाः सुशीलाः च भवन्ति । तत्र छात्राः वेदविद्यां शास्त्रविद्यां च अभ्यस्यन्ति । विरामकालेषु तापसाः अध्यापकाः अपि शिष्यान् अध्यापयन्तिविना शिक्षणशुल्कम् । सर्वेषाम् अशनस्यवसनस्य च सुव्यवस्था विद्यते । 

    छात्राः विरामकालेषु आश्रमोपयुक्तान् शाकान्, पुष्पाणि, फलानि, धान्यानि च स्वयमेव उत्पादयन्ति । तापसानां तपः प्रभावेन पर्जन्यः काले वर्षति । सस्यानि अत्यधिकं फलानि वितरन्ति । रोगाणां वार्तापि न विद्यते । 

    शिष्येषु परस्परं सौहार्दम् अभिवर्धते । रागद्वेषादयः दुर्गुणाः निर्मूलाः भवन्ति । 

    दिने दिने शिष्याः विनीताः भवन्ति । अत एवसत्पात्राणि भवन्ति । ते उत्तमं धनं सम्पाद्य धर्मकार्याय विनियोजयन्ति । ततः उत्तमं सुखं शान्तिं तृप्तिं च लभन्ते । 


विद्या ददाति विनयं विनयाद् याति पात्रताम् ।
पात्रत्वात् धनमाप्नोति धनाद् धर्मं ततः सुखम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें