।। एकतामन्त्रः ।।
यं वैदिका मन्त्रद्दशः पुराणाइन्द्रं यमं मातरिश्वानमाहुः ।
वेदान्तिनोऽनिर्वचनीयमेकं
यं ब्रह्माशब्देन विनिर्दिशन्ति ।।1।।
शैवो यमीशं शिव इत्यवोचन्
यं वैष्णवा विष्णुरिति स्तुवन्ति ।
बुद्धस्तथाऽर्हन्निति बौद्धजैनाः
सत् श्रीअकालेति च सिक्खसन्तः ।।2।।
शास्तेति केचित् प्रकृतिः कुमारः
स्वामीति मातेति पितेति भक्तत्या ।
यं प्रार्थयन्ते जगदीशितारं
स एक एव प्रभुरद्वितीयः ।।3।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें