संस्कृत और संस्कृती

अनुकूले विधौ देयं एतः पूरयिता हरिः । प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति ॥ भावार्थ:- तकदीर अनुकुल हो तब दान देना चाहिए क्यों कि सब देनेवाला भगवान है । तकदीर प्रतिकुल हो तब भी देना चाहिए क्यों कि सब हरण करनेवाला भी भगवान ही है !

बुधवार, 1 जुलाई 2015

        वटसावित्रीव्रतम्


इदं पृष्ठं निरीक्षताम् -

ज्येष्ठमासस्य पूर्णिमायां भारतीयाः महिला: ’वटसावित्रीव्रतम्’ आचरन्ति। इदं व्रतं सन्तानसौभाग्यप्राप्त्यर्थं महिलाः आचरन्ति । व्रतमेतत् भारतीयसंस्कृतौ आदर्शनार्याः प्रतीकं भवति । स्कन्दपुराणानुगुणं एतद् व्रतं ज्येष्ठमासस्य पूर्णिमायाम् आचरेत् । निर्णयामृतानुगुणम् अस्य आचरणं ज्येष्ठमासस्य आमावास्यायाम् इति मतभेदः अस्ति ।

उद्देश्यं सम्पाद्यताम् -

तिथिभेदः अस्ति चेदपि उद्देशः एकः एव सत्सन्तानप्राप्तिः सौभाग्यवृद्धिः च । अनेन भारतीयमहिलाः स्वपतिव्रताधर्मम् आचरन्ति।
विशेषज्ञाः ज्येष्ठमासस्य शुक्लपक्षस्य त्रयोदशीतः अमावास्यापर्यन्तं दिनत्रयस्य व्रतम् इति वदन्ति । अस्मिन् व्रते वटवृक्षस्य सावित्र्याः च द्वयोः महत्त्वमस्ति । सामान्यतः भारतीयपरम्पपरायाम् अश्वत्थवृक्षः पवित्रः । अस्मिन् वृक्षे तु न्यग्रोधस्य प्राधान्यमस्ति । पराशरमुनिना उक्तं यत् ’वटमूले तपोवास:' इति । वटवृक्षे ब्रह्मा विष्णुः महेश्वरः च वसन्ति इति पुराणेषु उक्तम् । अस्य छायायाम् उपविश्य व्रतपूजादिभिः कथाश्रवणेन च मनोकामनाः पूर्णितां गच्छन्ति इति । अस्य विश्वासस्य पृष्ठभूमौ एवं वैज्ञानिकं सत्यमपि भवेत् । वटवृक्षः स्ववैशाल्यविषयेऽपि प्रसिद्धः एव । ज्येष्ठमासस्य तीक्ष्णातपात् अपि रक्षणं भवति इति चिन्तनं स्यात् ।

दार्शनिका दृष्टिः सम्पाद्यताम् -

दार्शनिकदृष्ट्या वटवृक्षस्य आयुः दीर्घा अस्ति । पत्युः दीर्घायुष्यर्थमपि पतिव्रताः अस्य पूजनं कुर्वन्ति। अयं वृक्षः ज्ञानस्य निर्वाणस्य च प्रतीकोऽपि अस्ति । महिलाः वटसावित्रीव्रतकथाश्रवणपूर्वकं वृटवृक्षस्य काण्डे सूत्रबन्धनमपि कुर्वन्ति।

कथां सम्पाद्यताम् -

वटवृक्षस्य पूजनं कृत्वा सत्यवतः सावित्र्याः च कथाश्रवणम् अपि कुर्वन्ति । अतः अस्य व्रतस्य वटसावित्रीव्रतम् इति नाम अभवत् । भारतीयसंस्कृतौ, अल्पायुषः सत्यवत: पत्नी सावित्री तु ऐतिहासिकी नारी । सावित्री पदस्य अर्थः तु वेदमाता गायत्री अथवा सरस्वती इत्यपि भवति । अस्याः सावित्र्याः जन्म अपि विशेषरीत्या एव अभवत् । भद्रदेशस्य राजा अश्वपतिः । तस्य बहुकालं यावत् सन्तानप्राप्तिः नाभवत् । सत्सन्तानप्राप्तये सः अष्टदशवर्षाणि प्रतिदिनं मन्त्रोच्चारणपूर्वकं लक्षाहुतिपूर्वकं यज्ञं करोति स्म । यज्ञस्य फलरूपेण देवी सावित्री प्रकटीभूता। सा तेजस्विनी कन्या जायते इति वरम् अयच्छत् । सावित्रीदेव्याः कृपानुग्रहेण पुत्री जाता अत: तस्याः नाम सावित्री इति जातम्। कन्या तारुण्यं प्राप्य रूपवती अभवत् । किन्तु अनुरूपः वरः न प्राप्तः इति कारणात् पिता अतीव दुःखितः अभवत् । वरस्य अन्वेषनार्थं राजा अश्वपतिः स्वयं प्रस्थितवान् । सावित्री तपोवनेषु अटन्ती राज्यभ्रष्टं साल्वदेशस्य नृपं द्युमत्सेनं दृष्टवती । तेन सह विद्यमानं तस्य पुत्रं सत्यवन्तं दृष्ट्वा तेन अनुरक्ता नारदमुनेः वचनमपि निराकृत्य तं पतित्वेन स्वीकृतवती । किन्तु पतिः सत्यवान् अल्पायुः आसीत् । पत्युः मरणकालत् पूर्वमेव सावित्र्या घोरं तपं समाचरत् । तस्य फलं सा प्राप्तवती।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें