।। त्रयः धूर्ताः पथिकश्च ।।
एकदा एकः पथिकः हाटकात् अजां क्रीत्वा स्वगृहं अगच्छत् ।मार्गे ताम् अजां श्रान्तां दृष्ट्वा सः स्वस्कन्धे संस्थाप्य अनयत् । मार्गे त्रयः धूर्ताः तम् अपश्यन् । ते अजां प्राप्तुं वांछन्ति स्म । ते मार्गे दूरे - दूरे अतिष्ठन् ।प्रथमः धूर्तः पथिकम् अवदत् - "भो पथिक ! किमेतत् ? त्वम् कुक्कुरं कुत्र नयसि ? "
पथिकः अवदत् -"किं त्वं न पश्यसि ? एषा अजा अस्ति । कथं त्वम् इमं कुक्कुरं कथयसि ?" इत्थं तौ वार्तां कुरुतः ।
पथिकः अग्रे अचलत् ।
ततः द्वितीयः धूर्तः अवदत् - " हे पथिक ! त्वम् अपवित्रं कुक्कुरं कथं स्कन्धयोः नयसि ? "
पथिकः अवदत् - "रे मूर्ख ! किं त्वं न पश्यसि ? यत् एषा अजा अस्ति ।
एषः कुक्कुरः नास्ति ।"
ततः अग्रे प्रचलिते तस्मिन् तृतीयः अपि धूर्तः अकथयत् । तत् श्रुत्वा पथिकः अजां कुक्कुरम् एव मत्वा तत्रैव ताम् अत्यजत् अगच्छत् च ।
धूर्ताः ताम् अजां स्वगृहं नीतवन्तः ।।
Chandra prakash Bahuguna
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें